|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.146. अध्यायः 146
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन कर्णेंप्रति तत्कुतभीमगर्हणातितिक्षया तद्गर्हणपूर्वकं तत्सुतवधप्रतिज्ञा॥ 1 ॥ कर्णदुर्योधनसंवादः सङ्कुलयुद्धं च॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-146-0x(4648)(51264)
तथा गतेषु शूरेषु तेषां मम च सञ्जय।
किंस्विद्भीमार्जुनौ चैव सात्यकिश्चाकरोत्तदा॥ 7-146-1(51265)
सञ्जय उवाच। 7-146-2x(4649)
विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः।
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत्॥ 7-146-2(51266)
पुनःपुनस्तूबरक मूढ औदरिकेति च।
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर॥ 7-146-3(51267)
इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय।
एवं वक्ता च मे वध्यस्तेन चोक्तस्तथा ह्यहम्॥ 7-146-4(51268)
एतद्व्रतं महाबाहो त्वया सह कृतं मया।
तथैतन्मम कौन्तेय यथा तव न संशयः॥ 7-146-5(51269)
तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम।
यथा भवति तत्सत्यं तथा कुरु धनञ्जय॥ 7-146-6(51270)
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः।
ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे॥ 7-146-7(51271)
कर्णकर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत।
अधर्मबुद्धे शृणु मे यत्त्वां वक्ष्यामि साम्प्रतम्॥ 7-146-8(51272)
द्वावेवं कर्ण शूराणां रणे दृष्टौ जयाजयौ।
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः॥ 7-146-9(51273)
`रणमुत्सृज्य निर्लज्ज गच्छसे च पुनः पुनः।
माहात्म्यं पश्य भीमस्य कर्म जन्म कुले तथा।
नोक्तवान्परुषं यत्त्वां पलायनपरायणम्॥ 7-146-10(51274)
भूयस्त्वमपि सङ्गम्यं सकृदेव यदृच्छया।
विरथं कृतवान्वीरं पाण्डवं सूतदायद॥ 7-146-11(51275)
कुलस्य सदृशं चापि राधेय कृतवानसि।
नैकान्तसिद्धिः सङ्ग्रामे वासवस्यापि विद्यते'॥ 7-146-12(51276)
मुमूर्षुर्युयुधानेन विरथो विकलेन्द्रियः।
मद्वध्यस्त्वमिति ज्ञात्वा जित्वा जीवन्विसर्जितः॥ 7-146-13(51277)
यदृच्छया रणे भीमं युध्यमानं महाबलम्।
कथञ्चिद्विरथं कृत्वा यत्त्वं रूक्षमभाषथाः।
अधर्मस्त्वेष सुमहाननार्यचरितं च तत्॥ 7-146-14(51278)
नारिं जित्वाऽतिकत्थन्ते न च जल्पन्ति दुर्वचः।
न च कञ्चन निन्दन्ति सन्तः शूरा नरर्षभाः॥ 7-146-15(51279)
त्वं तु प्राकृतविज्ञानस्तत्तद्वदसि सूतज।
बह्वबद्धमकर्ण्यं च चापलादपरीक्षितम्॥ 7-146-16(51280)
युध्यमानं पराक्रान्तं शूरमार्यव्रते रतम्।
यदवोचोऽप्रियं भीमं नैतत्सत्यं वचस्तव।
पश्यतां सर्वसैन्यानां केशवस्य ममैव च॥ 7-146-17(51281)
विरथो भीमसेनेन कृतोऽसि बहुशो रणे।
न च त्वां परुषं किञ्चिदुक्तवान्पाण्डुनन्दनः॥ 7-146-18(51282)
यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः।
परोक्षं यच्च सौभद्रो युष्माभिर्बहुभिर्हतः।
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि॥ 7-146-19(51283)
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते।
तस्माद्वध्योऽसि मे मूढ सभृत्यसुतबान्धवः॥ 7-146-20(51284)
कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम्।
हन्ताऽस्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे॥ 7-146-21(51285)
ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः।
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे॥ 7-146-22(51286)
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे।
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम्॥ 7-146-23(51287)
सञ्जय उवाच। 7-146-24x(4650)
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु।
महान्सुतुमुलः शब्दो बभूव रथिनां तदा॥ 7-146-24(51288)
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये।
मन्दरश्मिः सहस्रांशुरस्तङ्गिरिमुपाद्रवत्॥ 7-146-25(51289)
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत्।
अर्जुनं प्रेक्ष्य संयातं जयद्रथवधं प्रति॥ 7-146-26(51290)
`अमानुषाणि कर्माणि कुर्वन्तौ भरतर्षभ।
सात्यकिं भीमसेनं च यत्तौ तौ दर्शयन्निव॥ 7-146-27(51291)
अयं स वैकर्तन युद्धकालो
विदर्शयस्वात्मबलं महात्मन्।
यथा न वध्येत रणेऽर्जुनेन
जयद्रथः कर्ण तथा कुरुष्व॥ 7-146-28(51292)
अल्पावशेषो दिवसो हि साम्प्रतं
निवारयेहाद्य रिपुं शरौघैः।
दिनक्षयं प्राप्य नरप्रवीर
ध्रुवो हि नः कर्ण जयो भविष्यति॥ 7-146-29(51293)
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमनं प्रति।
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम्॥ 7-146-30(51294)
अनर्जुनायां च भुवि मुहूर्तमपि मानद।
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः॥ 7-146-31(51295)
पाण्डवेषु विनष्टेषु सशैलवनकाननाम्।
वसुन्धरामिमां कर्ण भोक्ष्यामो महतकण्टकाम्॥ 7-146-32(51296)
दैवेनोपहतः पार्थो विपरीतश्च मानद।
कार्याकार्यमजानानः प्रतिज्ञां कृतवान्रणे॥ 7-146-33(51297)
नूनमात्मविनाशाय पाण्डवेन किरीटिना।
मिथ्याप्रतिज्ञैव कृता जयद्रथवधं प्रति॥ 7-146-34(51298)
कथं जीवति दुर्धर्षे त्वपि राधेय फल्गुनः।
अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम्॥ 7-146-35(51299)
रक्षितं मद्रराजेन कृपेण च महात्मना।
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः॥ 7-146-36(51300)
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च।
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः॥ 7-146-37(51301)
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः।
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद॥ 7-146-38(51302)
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः।
द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च।
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे॥ 7-146-39(51303)
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष।
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम्॥ 7-146-40(51304)
दृढलक्ष्येण वीरेण भीमसेनेन धन्विना।
भृशं भिन्नतनुः सङ्ख्ये शरजालैरनेकशः॥ 7-146-41(51305)
स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद।
नाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य महेषुभिः।
योत्स्यामि तु यथाशक्त्या त्वदर्थं जीवितं मम॥ 7-146-42(51306)
`तत्तथा प्रयतिष्येऽहं परं शक्त्याxxxxसुयोधन'।
यथा पाण्डवमुख्योऽसौ न हनिष्याति सैन्धवम्॥ 7-146-43(51307)
न हि मे युध्यमानस्य सायकानस्यतः शितान्।
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः॥ 7-146-44(51308)
यत्तु भक्तिमता कार्यं सततं हितकाङ्क्षिणा।
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः॥ 7-146-45(51309)
सैन्धवार्थे परं यत्नं करिष्याम्यद्य संयुगे।
त्वत्प्रियार्थं महाराज जयो दैवे प्रतिष्ठितः॥ 7-146-46(51310)
अद्य योत्स्येऽर्जुमहं पौरुषं स्वं व्यपाश्रितः।
त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः॥ 7-146-47(51311)
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः।
पश्यन्तु सर्वसैन्यानि दारुणं रोमहर्षणम्॥ 7-146-48(51312)
सञ्जय उवाच। 7-146-49x(4651)
कर्णकौरवयोरेवं रणे संभाषमाणयोः।
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम्॥ 7-146-49(51313)
चिच्छेद निशितैर्बाणैः शूराणामनिवर्तिनाम्॥ 7-146-50(51314)
भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे।
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः॥ 7-146-51(51315)
हस्तिहस्तान्द्विपस्कन्धान्रथाक्षांश्च समन्ततः।
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान्॥ 7-146-52(51316)
क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च।
हयान्वारणमुख्यांश्च पदातींश्च समन्ततः।
ध्वजांश्छत्राणि चापानि चामराणि शिरांसि च॥ 7-146-53(51317)
कक्षमग्निरिवोद्धूतः प्रादहत्तव वाहिनीम्।
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम्॥ 7-146-54(51318)
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली।
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः॥ 7-146-55(51319)
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः।
प्रबभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः॥ 7-146-56(51320)
तं तथाऽवस्थितं दृष्ट्वा त्वदीया वीरसंमताः।
नामृष्यन्त महेष्वासाः पाण्डवं पुरुषर्षभाः॥ 7-146-57(51321)
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्।
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः॥ 7-146-58(51322)
सन्नद्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम्।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिःस्वनैः॥ 7-146-59(51323)
सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः।
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम्॥ 7-146-60(51324)
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ।
सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे॥ 7-146-61(51325)
ते भुजैर्भोगिभोगाभैर्धनूंष्यानम्य सायकान्।
मुमुचुःसूर्यरश्म्याभाञ्छतशः फल्गुनं प्रति॥ 7-146-62(51326)
ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः।
द्विधा त्रिधाऽष्टधैकैकं छित्त्वा विव्याध तान्रथान्॥ 7-146-63(51327)
सिंहलाङ्गूलकेतुस्तु दर्शयन्वीर्यमात्मनः।
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयन्॥ 7-146-64(51328)
स विद्वा दशभिः पार्थं वासुदेवं च सप्तभिः।
अतिष्ठद्रथमार्गेषु सैन्धवं प्रतिपालयन्॥ 7-146-65(51329)
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः।
महता रथवंशेन सर्वतः प्रत्यवारयन्॥ 7-146-66(51330)
विष्फारयन्तश्चापानि विसृजन्तश्च सायकान्।
सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते॥ 7-146-67(51331)
ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत।
इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च॥ 7-146-68(51332)
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च।
एकैकं दशभिर्बाणैः सर्वानेव समार्पयत्॥ 7-146-69(51333)
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः।
दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः॥ 7-146-70(51334)
त एनमभिगर्जन्तो विध्यन्तश्च पुनःपुनः।
विधुन्वन्तश्च चापानि सर्वतः प्रत्यवारयन्॥ 7-146-71(51335)
श्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशु ते।
सूर्यास्तमनमिच्छन्तस्त्वरमाणा महारथाः॥ 7-146-72(51336)
त एनमभिनर्दन्तौ विधुन्वाना धनूंषि च।
सिषिचुर्मार्गणैस्तीक्ष्णैर्गिरिं मेघा इवाम्बुभिः॥ 7-146-73(51337)
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन्।
धनञ्जयस्य गात्रे तु शूराः परिघबाहवः॥ 7-146-74(51338)
`निवार्य ताञ्शरव्रातैर्दिव्यान्यस्त्राणि दर्शयन्'।
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली।
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः॥ 7-146-75(51339)
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः।
मिषतो भीमसेनस्य सात्वतस्य च भारत॥ 7-146-76(51340)
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्राणाजिरे।
सूतपूत्रं महाबाहुः सर्वसैन्यस्य पश्यतः॥ 7-146-77(51341)
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष।
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः॥ 7-146-78(51342)
तान्कर्णः प्रतिविव्याध षष्ट्याषष्ट्या महारथः।
तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह॥ 7-146-79(51343)
तत्राद्भूतमपश्याम सूतपुत्रस्य मारिष।
यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्थवारयत्॥ 7-146-80(51344)
फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे।
सायकानां शतेनैव सर्वमर्मस्वताडयत्॥ 7-146-81(51345)
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान्।
शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत॥ 7-146-82(51346)
तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः।
तस्य पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे।
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः॥ 7-146-83(51347)
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान्।
सायकैरष्टसाहस्रैश्छादयामास पाण्डवम्॥ 7-146-84(51348)
तां बाणवृष्टिमतुलां कर्णचापसमुत्थिताम्।
व्यधमत्सायकैः पार्थः शलभानिव मारुतः॥ 7-146-85(51349)
छादयामास च तदा सायकैरर्जुनो रणे।
पश्यतां सर्पयोधानां दर्शयन्पाणिलाघवम्॥ 7-146-86(51350)
वधार्थं चास्य समरे सायकं सूर्यवर्चसम्।
चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः॥ 7-146-87(51351)
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम्।
अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद्भूवि॥ 7-146-88(51352)
कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम्।
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया॥ 7-146-89(51353)
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ।
सायकैस्तु प्रतिच्छन्नं चक्रतुः खमजिह्मगैः॥ 7-146-90(51354)
अदृश्यौ च शरौथैस्तौ निघ्न्तावितरेतरम्।
कर्ण पार्थोऽस्ति तिष्ठत्वं कर्णोऽहं तिष्ठ फल्गुन्न॥ 7-146-91(51355)
इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तु परस्परम्।
विध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च॥ 7-146-92(51356)
प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे।
प्रशस्यामानौ समरे सिद्धचारणपन्नगैः॥ 7-146-93(51357)
अयुध्येतां महाराज परस्परवधैषिणौ।
ततो दुर्योधनो राजंस्तावकानभ्यभाषत॥ 7-146-94(51358)
यत्नाद्रक्षत राधेयं नाहत्वा समरेऽर्जुनम्।
निवर्तिष्यति राधेयो न वाऽजित्वाऽद्य फल्गुनं॥ 7-146-95(51359)
एतस्मिन्न्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम्।
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान्।
अनयत्प्रेतलोकाय चतुर्भिः श्वेतवाहनः॥ 7-146-96(51360)
सारथिं चास्य भल्लेन रथनीडादपातयत्।
छादयामास स शरैस्तव पुत्रस्य पश्यतः॥ 7-146-97(51361)
सञ्छाद्यमानः समरे हताश्वो हतसारथिः।
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत॥ 7-146-98(51362)
तं तथा विरथं दृष्ट्वा रथमारोप्य तं तदा।
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत्॥ 7-146-99(51363)
मद्रराजश्च कौन्तेयमविध्यत्त्रिंशता शरैः।
`आवव्रेऽर्जुनमार्गं च शरजालेन भारत'॥ 7-146-100(51364)
शारद्वतस्तु विंशत्यं वासुदेवं समार्पयत्।
धनञ्जयं द्वादशभिराजघान शिलीमुखैः॥
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः।
पृथक्पृथङ्महाराज विव्यधुः कृष्णपाण्डवौ॥ 7-146-101(51365)
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः।
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च॥
सैन्धवं दशभिर्बाणैर्वृषसेनं त्रिभिः शरैः।
शारद्वतं च विंशत्या विद्व्वा पार्थो ननाद ह॥ 7-146-102(51366)
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः।
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम्॥ 7-146-103(51367)
अथार्जुनः सर्वतो वारुणास्त्रं
प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान्।
तं प्रत्युदीयः कुरुवः पाण्डुपुत्रं
रथैर्महार्हैः शरवर्षं सृजन्तः॥ 7-146-104(51368)
ततस्तु तस्मिंस्तुमले समुत्थिते
सुदारुणे भारतमोहनीये।
नो मुह्यत प्राप्य स राजपुत्रः
किरीटमाली व्यसृजच्छरौघान्॥ 7-146-105(51369)
वधप्रेप्सुः सव्यसाची कुरूणां
स्मरन्क्लेशान्द्वादशवर्षवृत्तान्।
गाण्डीवमुक्तैरिषुभिर्महात्मा
सर्वा दिशो व्यावृणोदप्रमेयः॥ 7-146-106(51370)
प्रदीप्तोल्कमभवच्चान्तरिक्षं
मृतेषु देहेष्वपतन्वयांसि।
यत्पिङ्गलज्येन किरीटमाली
क्रुद्धो रिपूनाजगवेन हन्ति॥ 7-146-107(51371)
ततः किरीटि महता महायशाः
शरासनेनास्य शराननीकजित्।
हयप्रवेकोत्तमनागघूर्णिता--
न्कुरुप्रवीरानिषुभिर्व्यापातयत्॥ 7-146-108(51372)
गदाश्च गुर्वीः परिघानयस्मया--
नसींश्च शक्तीश्च रणे नराधिपाः।
महान्ति शस्त्राणि च भीमदर्शनाः
प्रगृह्य पार्थं सहसाऽभिदुद्रुवुः॥ 7-146-111(51373)
ततो युगान्ताभ्रसमस्वनं मह--
न्महेन्द्रचापप्रतिमं च गाण्डिवम्।
चकर्ष दोर्भ्यों विहसन्भृशं ययौ
दहंस्त्वहीयान्यमराष्ट्रवर्धनः॥ 7-146-112(51374)
स तानुदीर्णान्सरथान्सवारणा--
न्पदातिसङ्घांश्च महाधनुर्धरः।
विपन्नसर्वायुधजीवितान्रणे
चकार वीरो यमराष्ट्रवर्धनान्॥ ॥ 7-146-113(51375)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षट्चत्वारिंशदधिकशततमोऽध्यायः॥ 146 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-146-33 उपहतो मोहितः। विपरीतोऽन्यथाभूतप्रकृतिः॥ 5-146-41 दृढलक्ष्येण दृढप्रहारेण॥ 5-146-45 प्रतिष्ठितः अधीनः॥ 5-146-106 सर्वर्तोदारमस्त्रं इति। क.ख.ट.पाठः। सर्वतः सारमस्त्रं इति ङ. पाठः॥ 5-146-107 प्राप्य युद्धमिति शेषः॥ 5-146-110 आस्य समन्ततः क्षिप्त्वा॥ 5-146-146 षट्चत्वारिंशदधिकचततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|